|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.86. अध्यायः 086
Mahabharata - Sabha Parva - Chapter Topics
विदुरेण धृतराष्ट्रं प्रति दुर्योधननिन्दापूर्वकं द्यूतोपरमचोदनम्॥1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि।
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत्॥ 2-86-1(14760)
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत।
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्॥ 2-86-2(14761)
यद्वै पुरा जातमात्रो रुराव
गोमायुवद्विस्वरं पापचेताः।
दुर्योधनो भारतानां कुलघ्नः
सोऽयं युक्तो भवतां कालहेतुः॥ 2-86-3(14762)
गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे।
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम॥ 2-86-4(14763)
मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते।
आरुह्य तं मज्जति वा पतनं चाधिगच्छति॥ 2-86-5(14764)
सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते।
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः॥ 2-86-6(14765)
विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम्।
पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया॥ 2-86-7(14766)
अन्धका यादवा भोजाः समेताः कंसमत्यजन्।
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना॥ 2-86-8(14767)
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः।
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्॥ 2-86-9(14768)
निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम्।
काकेनेमांश्चित्रवर्हाञ्शार्दूलान्क्रोष्टुकेन च।
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे॥ 2-86-10(14769)
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥ 2-86-11(14770)
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः।
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान्॥ 2-86-12(14771)
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान्।
गृहे किल कृतावासाँल्लोभाद्राजा न्यपीडयत्।
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप॥ 2-86-13(14772)
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्।
तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप॥ 2-86-14(14773)
मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा।
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत॥ 2-86-15(14774)
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः।
वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान्।
मा गमः समुतामात्यः सबलश्च यमक्षयम्॥ 2-86-16(14775)
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत।
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः॥ 2-86-17(14776)
द्यूतं मूलं कलहस्याभ्युपैति
मिथो भेदं महते दारुणाय।
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो
दुर्योधनः सृजते वैरमुग्रम्॥ 2-86-18(14777)
प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः।
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः॥ 2-86-19(14778)
दुर्योधनो मदेनैव क्षेमं व्यपोहति।
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः॥ 2-86-20(14779)
यश्चित्तमन्वेति परस्य राजन्
वीरः कविः स्वामवमत्य दृष्टिम्।
नावं समुद्र इव बालनेत्रा-
मारुह्य घोरे व्यसने निमज्जेत्॥ 2-86-21(14780)
दुर्योधनो ग्लहते पाण्डवेन
प्रीयायसे त्वं जयतीति तच्च।
अतिनर्मा जायते संप्रहारो
यतो विनाशः समुपैति पुंसाम्॥ 2-86-22(14781)
आकर्षस्तेऽवाक्फलः सुप्रणीतो
हृदि प्रौढो मन्त्रपदः समाधिः।
युधिष्ठिरेण कलहस्तवाय-
मचिन्तितोऽभिमतः स्वबन्धुना॥ 2-86-23(14782)
प्रातिपेयाः शान्तनवाः शृणुध्वं
काव्यां वाचं संसदि कौरवाणाम्।
वैश्वानरं प्रज्वलितं सुघोरं
मा यास्यध्वं मन्दमनुप्रपन्नः॥ 2-86-24(14783)
यदा मन्युं पाण्डवोऽजातशत्रु-
र्न संयच्छेदक्षमदाभिभूतः।
वृकोदरः सव्यसाची यमौ च
कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्॥ 2-86-25(14784)
महाराज प्रभवस्त्वं धनानां
पुरा द्यूतान्मनसा यावदिच्छेः।
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं
किं ते तत्स्याद्वसु विन्देह पार्थान्॥ 2-86-26(14785)
जानीमहे देवितं सौबलस्य
वेद द्यूते निकृतिं पार्वतीयः।
यतः प्राप्तः शकुनिस्तत्र यातु
मा यूयुधो भारत पाण्डवेयान्॥ ॥ 2-86-27(14786)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षडशीतितमोऽध्यायः॥ 86॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-86-4 काव्यं कविना शुक्रेणोक्तां नीतिगिरम्॥ 2-86-5 माध्विको मधुपण्यवान्। प्रपातं भृगुम् ॥ 2-86-8 नियोगाद्दैवयोगात्॥ 2-86-10 चित्रवर्हान् मयूरान्॥ 2-86-14 आयतिमुत्तरकालम्। तदात्वं सांप्रतम्। तत्तस्मात्। अर्थकामो धनकामः॥ 2-86-15 पत्रिहा पक्षिहा ॥ 2-86-21 बालनेत्रामव्युत्पन्ननेतृकाम्॥ 2-86-22 ग्लहते पणं करोति। प्रीयायसे अतिशयेन प्रीयसे॥ 2-86-23 आकर्षो द्यूतम् ॥ 2-86-26 जयः अजयः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|